(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.275. अध्यायः 275
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति गोकपिलसंवादानुवादः॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

कपिल उवाच। 12-275-0x(6321)(76272)
एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः।
नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः॥ 12-275-1(76273)
निर्द्वन्द्वा निर्नमस्कारा निराशीर्बन्धना बुधाः।
विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः॥ 12-275-2(76274)
अपवर्गेऽथ संत्यागे बुद्धौ च कृतनिश्चयाः।
ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः॥ 12-275-3(76275)
येऽशोका नष्टरजसस्तेषां लोकाः सनातनाः।
तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम्॥ 12-275-4(76276)
स्यूमरश्मिरुवाच। 12-275-5x(6322)
यद्येषां परमा निष्ठा यद्येषां परमा गतिः।
गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते॥ 12-275-5(76277)
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः।
एवं गार्हस्थ्यमाश्रित्य वर्तन्त इतराश्रमाः॥ 12-275-6(76278)
गृहस्थ एव यजते गृहस्थस्तप्यते तपः।
गार्हस्थ्यमस्य धर्मस्य मूलं यत्किंचिदेव हि॥ 12-275-7(76279)
प्रजनाद्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुनेः।
प्रजनं चाप्युतान्यत्र न कथंचन विद्यते॥ 12-275-8(76280)
यास्तु स्युर्बहिरोषध्यो बहिरन्यास्तथाऽद्रिजाः।
ओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यते॥ 12-275-9(76281)
कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति।
अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः॥ 12-275-10(76282)
निराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः।
शमस्योपरमो दृष्टः प्रव्रज्यायामपण़्डितैः॥ 12-275-11(76283)
त्रैलोक्यस्येव हेतुर्हि मर्यादा शाश्वती ध्रुवा।
ब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते॥ 12-275-12(76284)
प्राग्गर्भाघानमन्त्रा हि प्रवर्तन्ते द्विजातिषु।
अविश्वस्तेषु वर्तन्ते विश्वस्तेष्वपि संश्रिताः॥ 12-275-13(76285)
दाहे पुनः संश्रयणे संश्रिते पात्रभोजने।
दानं गवां पशूनां वा पिण्डानामप्सु मज्जनम्॥ 12-275-14(76286)
अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरस्तथा।
मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम्॥ 12-275-15(76287)
एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित्।
ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु॥ 12-275-16(76288)
श्रिया विहीनैरलसैः पण्डितैश्च पलायितम्।
वेदवादापरिज्ञानं सत्याभासमिवानृतम्॥ 12-275-17(76289)
न वै पापैर्हियते कृष्यते वा
यो ब्राह्मणो यजते वेदशास्त्रैः।
ऊर्ध्वं यजन्पशुभिः सार्धमेति
ततः पुनस्तर्कयते न कामान्॥ 12-275-18(76290)
न वेदानां परिभवान्न शाठ्येन न मायया।
महत्प्राप्नोति पुरुषो ब्राह्मणो ब्रह्म विन्दति॥ 12-275-19(76291)
कपिल उवाच। 12-275-20x(6323)
दर्शश्च पूर्णमासश्च अग्निहोत्रं च धीमताम्।
चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः॥ 12-275-20(76292)
अनारम्भाः सुधृतयः शुचयो ब्रह्मसंज्ञिताः।
ब्राह्मणा एव ते देवांस्तर्पन्त्यमृतैरिव॥ 12-275-21(76293)
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः।
देवाऽपि मार्गे मुह्यन्ति ह्यपदस्य पदैषिणः॥ 12-275-22(76294)
चतुर्द्वारं पुरुष चर्तुर्मुखं
चतुर्मुखो नैनमुपैति निन्दा।
बाहुभ्यां पद्भ्यामुदरादुपस्था
त्तेषां द्वारं द्वारपालो बुभूषेत्॥ 12-275-23(76295)
नाक्षैर्दीव्येन्नाददीतान्यवित्तं
न वाऽयोनीयस्य शृतं प्रगृह्णात्।
क्रुद्धो न चैव प्रहरेत धीमां
स्तथास्य तत्पाणिपादं सुगुप्तम्॥ 12-275-24(76296)
नाक्रोशमृच्छेन्न वृथा वदेच्च
न पैशुनं जनवादं च कुर्यात्।
सत्यव्रतो मितभाषोऽप्रमत्त
स्तथाऽस्य वाग्द्वारमथो सुगुप्तम्॥ 12-275-25(76297)
नानाशनः स्यान्न महाशनः स्या
न्न लोलुपः साधुभिरागतः स्यात्।
यात्रार्थमाहारमिहाददीत
तथाऽस्य स्याज्जाठरद्वारगुप्तिः॥ 12-275-26(76298)
न वीरपत्नीं विहरेत नारीं
न चापि नारीमनृतावाह्वयीत।
भार्याव्रतं ह्यात्मनि धारयीत
तथास्योपस्थद्वारगुप्तिर्भवेत्॥ 12-275-27(76299)
द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः।
उपस्थमुदरं पाणी वाक्चतुर्थी स वै द्विजः॥ 12-275-28(76300)
मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत।
किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना॥ 12-275-29(76301)
अनुत्तरीयवसनमनुपस्तीर्णशायिनम्।
बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः॥ 12-275-30(76302)
द्वन्द्वारामेषु सर्वेषु य एको रमते मुनिः।
परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः॥ 12-275-31(76303)
येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या।
गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः॥ 12-275-32(76304)
अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः।
सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः॥ 12-275-33(76305)
नान्तरेणानुजानाति वेदानां यत्क्रियाफलम्।
अविज्ञाय च तत्सर्वमन्यद्रोचयते फलम्॥ 12-275-34(76306)
स्वकर्मभिः संश्रितानां तपो घोरत्वमागमत्।
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम्॥ 12-275-35(76307)
अशक्नुवन्तश्चरितुं किंचिद्धर्मेषु सूत्रितम्।
निरापद्धर्म आचारो ह्यप्रमादो पराभवः॥ 12-275-36(76308)
फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रवाणि च।
विगुणानि च पश्यन्ति तथा नैकानि केन च॥ 12-275-37(76309)
गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चात्र सुदुष्कराः।
अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि॥ 12-275-38(76310)
स्यूमरश्मिरुवाच। 12-275-39x(6324)
यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा।
तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे॥ 12-275-39(76311)
कपिल उवाच। 12-275-40x(6325)
प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः।
प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते॥ 12-275-40(76312)
स्यूमरश्मिरुवाच। 12-275-41x(6326)
स्यूमरश्मिरहं ब्रह्मञ्जिज्ञासार्थमिहागतः।
श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया॥ 12-275-41(76313)
इमं च संशयं घोरं भगवान्प्रब्रवीतु मे।
प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः।
किमत्र प्रत्यक्षतमं भवन्तो यदुपासते॥ 12-275-42(76314)
अन्यत्र तर्कशास्त्रेभ्य आगमार्थं यथागमम्।
आगमो वेदवादास्तु तर्कशास्त्राणि चागमः॥ 12-275-43(76315)
यथाश्रममुपासीत आगमस्तत्र सिध्यति।
सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्ययात्॥ 12-275-44(76316)
नौर्नावीव निबद्धा हि स्रोतसा सनिबन्धना।
ह्रियमाणा कथ विप्र कुबुद्धींस्तारयिष्यति॥ 12-275-45(76317)
एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भो।
नैव त्यागी न संतुष्टो नाशोको न निरामयः।
नानिर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन॥ 12-275-46(76318)
भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम्।
इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु॥ 12-275-47(76319)
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु।
एकमालम्बमानानां निर्णये किं निरामयम्।
`एतद्ब्रवीतु भगवानुपपन्नोस्य्यधीहि भो॥' 12-275-48(76320)
कपिल उवाच। 12-275-49x(6327)
यद्यदाचरते शास्त्रमर्थ्यं सर्वप्रवृत्तिषु।
यस्य यत्र ह्यनुष्ठानं तस्य तत्तु निरामयम्॥ 12-275-49(76321)
सर्वं प्रापयति ज्ञानं ये ज्ञानं ह्यनुवर्तते।
ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः॥ 12-275-50(76322)
भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरमयाः।
ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते॥ 12-275-51(76323)
शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबलाज्जनाः।
कामद्वेषाभिभूतत्वादहंकारवशं गताः॥ 12-275-52(76324)
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः।
ब्रह्मस्तेना निरारम्भा अपक्वमनसोऽशिवाः॥ 12-275-53(76325)
नैर्गुण्यमेव पश्यन्ति न गुणाननुयुञ्जते।
तेषां तमः शरीराणां तम एव परायणम्॥ 12-275-54(76326)
यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगः।
तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः।
नित्यमेवानुवर्तन्ते गुणाः प्रकृतिसंभवाः॥ 12-275-55(76327)
ये तद्बुद्ध्वाऽनुपश्यन्तः संत्यजेयुः शुभाशुभम्।
परां गतिमभीप्सन्तो यतयः संयमे रताः॥ 12-275-56(76328)
स्यूमरश्मिरुवाच। 12-275-57x(6328)
सर्वमेतत्त्वया ब्रह्मञ्शास्त्रतः परिकीर्तितम्।
न ह्यविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः॥ 12-275-57(76329)
यः कश्चिन्न्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः।
यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः॥ 12-275-58(76330)
न प्रवृत्तिर्ऋते शास्त्रात्काचिदस्तीति निश्चयः।
यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः॥ 12-275-59(76331)
शास्त्रादपेतं पश्यन्ति बहवोऽत्यर्थमानिनः।
शास्त्रदोषान्न पश्यन्ति इह चामुत्र चापरे।
[इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु॥ 12-275-60(76332)
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु।
एकमालम्बमानानां निर्णये सर्वतो दिशम्॥ 12-275-61(76333)
आनन्त्यं वदमानेन शक्तेनावर्जितात्मना]।
अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः॥ 12-275-62(76334)
शक्यं त्वेकेन युक्तेन कृतकृत्येन सर्वशः।
पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतो दिशम्॥ 12-275-63(76335)
`नात्यन्तं वन्दमानेन शक्तेन विजितात्मना।'
वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभापितुम्।
अपेतन्यायशास्त्रेण सर्वलोकविगर्हिणा॥ 12-275-64(76336)
इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम्।
दानमध्ययनं यज्ञः प्रजासंतानमार्जवम्॥ 12-275-65(76337)
यद्येतदेवं कृत्वाऽपि न विमोक्षोऽस्ति कस्यचित्।
धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः॥ 12-275-66(76338)
नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतः क्रिया।
एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा॥ 12-275-67(76339)
तत्त्वं वदस्व मे ब्रह्मन्नुपसन्नोस्म्यधीहि भोः।
यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम्॥ ॥ 12-275-68(76340)

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चसप्तत्यधिकद्विशततमोऽध्यायः॥ 275॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-275-11 श्रमस्योपरमो दृष्ट इति ट.थ. पाठः॥ 12-275-14 दानं पुनः संग्रहणं संश्रिता पात्रभोजनम्। इति ट. थ. पाठः। दाहः पुनः संचयनं संस्थितः पात्रभोजनमिति ध. पाठः॥ 12-275-19 ब्रह्म ब्रह्मणि विन्दतीति ट. थ. पाठः॥ 12-275-20 तेषु धर्मः सनातन इति झ. पाठः॥ 12-275-22 सर्वज्ञानेन पश्यतः इति ट. पाठः॥ 12-275-24 नायोनिजस्येह स्रुवं प्रगृह्णादिति ट.थ. पाठः। नायोनिजस्यैव सुतां प्रगृह्णादिति ध. पाठः॥ 12-275-26 साधुरनागसः स्यादिति ट. थ. पाठः॥ 12-275-27 धैर्यव्रतं ह्यात्मनीति ध. पाठः॥ 12-275-39 यथा च देवब्राह्मण्यमत्यागश्च कलौ यथेति थ. पाठः॥ 12-275-44 यथागममुपासीतेति थ. पाठः यथाकाममुपासीतेति ध.पाठः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.